७.५८.५

यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसंस्कृतैः ।
निर्मार्जनीयस्तु भवेत्कुश इत्यस्य नामतः ॥

पदच्छेदः

यस्तयोःयद् (१.१)–तद् (६.२)
पूर्वजोपूर्वज (१.१)
जातःजात (√जन् + क्त, १.१)
तद् (१.१)
कुशैर्कुश (३.३)
मन्त्रसंस्कृतैःमन्त्र–संस्कृत (√संस्-कृ + क्त, ३.३)
निर्मार्जनीयस्तुनिर्मार्जनीय (√निः-मृज् + अनीयर्, १.१)–तु (अव्ययः)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
कुशकुश (१.१)
इत्यस्यइति (अव्ययः)–इदम् (६.१)
नामतःनामन् (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त योः पूर्व जो जा तः
कु शै र्मन्त्र संस्कृ तैः
नि र्मार्ज नीस्तु वे
त्कु त्यस्य ना तः