७.५८.७

एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥

पदच्छेदः

एवंएवम् (अव्ययः)
कुशलवौकुश–लव (१.२)
नाम्नानामन् (३.१)
तावुभौतद् (१.२)–उभ् (१.२)
यमजातकौयम–जातक (१.२)
मत्कृताभ्यांमद्–कृत (√कृ + क्त, ३.२)
(अव्ययः)
नामभ्यांनामन् (३.२)
ख्यातियुक्तौख्याति–युक्त (√युज् + क्त, १.२)
भविष्यतःभविष्यतः (√भू लृट् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंकु वौ ना म्ना
तावु भौ जा कौ
त्कृ ता भ्यां ना भ्यां
ख्याति यु क्तौ विष्य तः