७.५८.९

तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च ।
संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥

पदच्छेदः

तथातथा (अव्ययः)
तांतद् (२.१)
क्रियमाणांक्रियमाण (√कृ + शानच्, २.१)
तुतु (अव्ययः)
रक्षांरक्षा (२.१)
गोत्रंगोत्र (२.१)
(अव्ययः)
नामनामन् (२.१)
(अव्ययः)
संकीर्तनंसंकीर्तन (२.१)
(अव्ययः)
रामस्यराम (६.१)
सीतायाःसीता (६.१)
प्रसवौप्रसव (१.२)
शुभौशुभ (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था तांक्रि मा णांतु
क्षां गो त्रं ना
सं कीर्त नं रास्य
सी ता याःप्र वौशु भौ