७.६.१२

शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।
ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः ॥

M N Dutt

And bowing down to the god holding the conch, discus and mace, and paying him high homage, they, greatly flurried, addressed him about the sons of Sukeśa, saying.

पदच्छेदः

शङ्खचक्रधरंशङ्ख–चक्र–धर (२.१)
देवंदेव (२.१)
प्रणम्यप्रणम्य (√प्र-नम् + ल्यप्)
बहुबहु (२.१)
मान्यमान्य (√मानय् + क्त्वा)
(अव्ययः)
ऊचुःऊचुः (√वच् लिट् प्र.पु. बहु.)
संभ्रान्तवद्संभ्रान्त (√सम्-भ्रम् + क्त)–वत् (अव्ययः)
वाक्यंवाक्य (२.१)
सुकेशतनयार्दिताःसुकेश–तनय–अर्दित (√अर्दय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्खक्र रं दे वं
प्रम्यहु मान्य
चुः सं भ्रान्त द्वा क्यं
सु के यार्दि ताः