७.६.१९

तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।
सूदयिष्यामि संग्रामे सुरा भवत विज्वराः ॥

पदच्छेदः

तान्तद् (२.३)
अहंमद् (१.१)
समतिक्रान्तमर्यादान्समतिक्रान्त (√समति-क्रम् + क्त)–मर्यादा (२.३)
राक्षसाधमान्राक्षस–अधम (२.३)
सूदयिष्यामिसूदयिष्यामि (√सूदय् लृट् उ.पु. )
संग्रामेसंग्राम (७.१)
सुरासुर (१.३)
भवतभवत (√भू लोट् म.पु. द्वि.)
विज्वराःविज्वर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता हं ति क्रान्त
र्या दा न्राक्ष सा मान्
सू यि ष्यामि सं ग्रा मे
सु रा विज्व राः