७.६.२६

इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।
शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥

M N Dutt

Thus addressed by the deities, the slayer of Andhaka, hearing their speech, said, shaking his head and hands.

पदच्छेदः

इत्येवंइति (अव्ययः)–एवम् (अव्ययः)
त्रिदशैर्त्रिदश (३.३)
उक्तोउक्त (√वच् + क्त, १.१)
निशम्यान्धकसूदनःनिशम्य (√नि-शामय् + ल्यप्)–अन्धक–सूदन (१.१)
शिरःशिरस् (२.१)
करंकर (२.१)
(अव्ययः)
धुन्वानधुन्वान (√धू + शानच्, १.१)
इदंइदम् (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये वंत्रि शै रु क्तो
नि म्यान्ध सू नः
शि रः रं धु न्वा
दंब्र वीत्