७.६.२७

अवध्या मम ते देवाः सुकेशतनया रणे ।
मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति ॥

M N Dutt

I shall not slay them, you gods; they are incapable of being slain by me. But I shall unfold to you the way in which they will be destroyed.

पदच्छेदः

अवध्याअवध्य (१.३)
मममद् (६.१)
तेतद् (१.३)
देवाःदेव (८.३)
सुकेशतनयासुकेश–तनय (१.३)
रणेरण (७.१)
मन्त्रंमन्त्र (२.१)
तुतु (अव्ययः)
वःत्वद् (४.३)
प्रदास्यामिप्रदास्यामि (√प्र-दा लृट् उ.पु. )
योयद् (१.१)
वैवै (अव्ययः)
तान्निहनिष्यतितद् (२.३)–निहनिष्यति (√नि-हन् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ध्या ते दे वाः
सु के या णे
न्त्रंतु वःप्र दा स्यामि
यो वै तान्नि निष्यति