७.६.३४

स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम् ।
आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः ॥

M N Dutt

We have studied, performed sacrifices, practised charity, and obtained riches; and attaining long health and long life, we have established sterling righteousness in our path.

पदच्छेदः

स्वधीतंसु (अव्ययः)–अधीत (√अधि-इ + क्त, १.१)
दत्तम्दत्त (√दा + क्त, १.१)
इष्टंइष्ट (√इष् + क्त, १.१)
(अव्ययः)
ऐश्वर्यंऐश्वर्य (१.१)
परिपालितम्परिपालित (√परि-पालय् + क्त, १.१)
आयुर्आयुस् (१.१)
निरामयंनिरामय (१.१)
प्राप्तंप्राप्त (√प्र-आप् + क्त, १.१)
स्वधर्मःस्वधर्म (१.१)
स्थापितश्चस्थापित (√स्थापय् + क्त, १.१)–च (अव्ययः)
नःमद् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्व धी तंत्त मि ष्टं
श्व र्यंरि पालि तम्
युर्नि रा यं प्रा प्तं
स्व र्मः स्थापिश्च नः