७.६.४

शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः ।
स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत् ॥

पदच्छेदः

शरण्यान्यशरण्यानिशरण्य (१.३)–अशरण्य (१.३)
आश्रमाणिआश्रम (१.३)
कृतानिकृत (√कृ + क्त, १.३)
नःमद् (६.३)
स्वर्गाच्चस्वर्ग (५.१)–च (अव्ययः)
च्यावितःच्यावित (√च्यावय् + क्त, १.१)
शक्रःशक्र (१.१)
स्वर्गेस्वर्ग (७.१)
क्रीडन्तिक्रीडन्ति (√क्रीड् लट् प्र.पु. बहु.)
शक्रवत्शक्र–वत् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ण्यान्य ण्यानि
श्र माणिकृ तानि नः
स्व र्गा च्च च्यावि तः क्रः
स्व र्गे क्रीन्तिक्र वत्