७.६.४६

अट्टहासान्विमुञ्चन्तो घननादसमस्वनान् ।
भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः ॥

पदच्छेदः

अट्टहासान्अट्टहास (२.३)
विमुञ्चन्तोविमुञ्चत् (√वि-मुच् + शतृ, १.३)
घननादसमस्वनान्घन–नाद–सम–स्वन (२.३)
भूताःभूत (१.३)
परिपतन्तिपरिपतन्ति (√परि-पत् लट् प्र.पु. बहु.)
स्मस्म (अव्ययः)
नृत्यमानाःनृत्यमान (√नृत् + शानच्, १.३)
सहस्रशःसहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ट्ट हा सान्वि मु ञ्च न्तो
नास्व नान्
भू ताःरि न्तिस्म
नृत्य मा नाःस्र शः