७.६.४७

गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः ।
राक्षसानामुपरि वै भ्रमते कालचक्रवत् ॥

पदच्छेदः

गृध्रचक्रंगृध्र–चक्र (१.१)
महच्चापिमहत् (१.१)–च (अव्ययः)–अपि (अव्ययः)
ज्वलनोद्गारिभिर्ज्वलन–उद्गारिन् (३.३)
मुखैःमुख (३.३)
राक्षसानाम्राक्षस (६.३)
उपरिउपरि (अव्ययः)
वैवै (अव्ययः)
भ्रमतेभ्रमते (√भ्रम् लट् प्र.पु. एक.)
कालचक्रवत्कालचक्र–वत् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गृध्र क्रं च्चापि
ज्व नो द्गारि भिर्मु खैः
राक्ष सा नामुरि वै
भ्र ते काक्र वत्