७.६.४९

माल्यवांश्च सुमाली च माली च रजनीचराः ।
आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥

पदच्छेदः

माल्यवांश्चमाल्यवन्त् (१.१)–च (अव्ययः)
सुमालीसुमालिन् (१.१)
(अव्ययः)
मालीमालिन् (१.१)
(अव्ययः)
रजनीचराःरजनीचर (१.३)
आसन्आसन् (√अस् लङ् प्र.पु. बहु.)
पुरःसरास्तेषांपुरःसर (१.३)–तद् (६.३)
क्रतूनाम्क्रतु (६.३)
इवइव (अव्ययः)
पावकाःपावक (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

माल्य वांश्चसु मा ली
मा ली नी राः
न्पु रः रा स्ते षां
क्र तू नामि पा काः