७.६०.१२

तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।
शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि ॥

M N Dutt

I wish now to fight with you-do you enter into a dual conflict. You are the enemy of all animals. You shall not be able to survive at my hands.

पदच्छेदः

तस्यतद् (६.१)
मेमद् (६.१)
युद्धकामस्ययुद्ध–काम (६.१)
द्वन्द्वयुद्धंद्वंद्व–युद्ध (१.१)
प्रदीयताम्प्रदीयताम् (√प्र-दा प्र.पु. एक.)
शत्रुस्त्वंशत्रु (१.१)–त्वद् (१.१)
सर्वजीवानांसर्व–जीव (६.३)
(अव्ययः)
मेमद् (६.१)
जीवन्जीवत् (√जीव् + शतृ, १.१)
गमिष्यसिगमिष्यसि (√गम् लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य मे युद्ध कास्य
द्वन्द्व यु द्धंप्र दी ताम्
त्रु स्त्वंर्व जी वा नां
मे जीन्ग मिष्यसि