७.६०.४

ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।
आगच्छद्बहुसाहस्रं प्राणिनामुद्वहन्भरम् ॥

पदच्छेदः

ततोततस् (अव्ययः)
ऽर्धदिवसेअर्धदिवस (७.१)
प्राप्तेप्राप्त (√प्र-आप् + क्त, ७.१)
क्रूरकर्माक्रूर–कर्मन् (१.१)
तद् (१.१)
राक्षसःराक्षस (१.१)
आगच्छद्आगच्छत् (√आ-गम् लङ् प्र.पु. एक.)
बहुसहस्रंबहु–सहस्र (२.१)
प्राणिनाम्प्राणिन् (६.३)
उद्वहन्उद्वहत् (√उत्-वह् + शतृ, १.१)
भरम्भर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽर्धदि से प्रा प्ते
क्रू र्मा राक्ष सः
च्छद्बहु सा स्रं
प्राणि ना मुद्वन्भ रम्