७.६०.९

तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥

M N Dutt

The high-minded Śatrughna being beside himself with rage, from all his person issued burning lustre.

पदच्छेदः

तस्यतद् (६.१)
रोषाभिभूतस्यरोष–अभिभूत (√अभि-भू + क्त, ६.१)
शत्रुघ्नस्यशत्रुघ्न (६.१)
महात्मनःमहात्मन् (६.१)
तेजोमयातेजस्–मय (१.३)
मरीच्यस्तुमरीचि (१.३)–तु (अव्ययः)
सर्वगात्रैर्सर्व–गात्र (३.३)
विनिष्पतन्विनिष्पतन् (√विनिः-पत् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य रो षाभि भूस्य
त्रु घ्नस्य हात्म नः
ते जो या री च्यस्तु
र्व गा त्रैर्वि निष्प तन्