७.६१.२२

ऊचुश्च देवदेवेशं वरदं प्रपितामहम् ।
कच्चिल्लोकक्षयो देव प्राप्तो वा युगसंकयः ॥

पदच्छेदः

ऊचुश्चऊचुः (√वच् लिट् प्र.पु. बहु.)–च (अव्ययः)
देवदेवेशंदेवदेवेश (२.१)
वरदंवर–द (२.१)
प्रपितामहम्प्रपितामह (२.१)
कच्चिल्कश्चित् (१.१)
लोकक्षयोलोक–क्षय (१.१)
देवदेव (८.१)
प्राप्तोप्राप्त (√प्र-आप् + क्त, १.१)
वावा (अव्ययः)
युगसंक्षयःयुग–संक्षय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चुश्च दे दे वे शं
दंप्रपि ता हम्
च्चि ल्लोक्ष यो दे
प्रा प्तो वायु सं यः