७.६१.२३

नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह ।
देवानां भयसंमोहो लोकानां संक्षयः प्रभो ॥

पदच्छेदः

नेदृशं (अव्ययः)–ईदृश (१.१)
दृष्टपूर्वंदृष्ट (√दृश् + क्त)–पूर्व (१.१)
(अव्ययः)
श्रुतंश्रुत (√श्रु + क्त, १.१)
वावा (अव्ययः)
प्रपितामहप्रपितामह (८.१)
देवानांदेव (६.३)
भयसंमोहोभय–सम्मोह (१.१)
लोकानांलोक (६.३)
संक्षयःसंक्षय (१.१)
प्रभोप्रभु (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नेदृ शं दृष्ट पू र्वं
श्रु तं वाप्रपि ता
दे वा नां सं मो हो
लो का नां संक्ष यःप्र भो