७.६१.३४

आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।
स मुमोच महाबाणं लवणस्य महोरसि ।
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥

M N Dutt

There upon expanding his bow up to ears, Satrughna, the the most accomplished archer, discharged his arrow against the spacious breast of Lavaņa. And piercing his heart that arrow entered speedily into Rasātala and having entered Rasātala that arrow, honoured by the celestials, again came to the descendant of Raghu.

पदच्छेदः

कर्णात्कर्ण (५.१)
तद् (१.१)
विकृष्याथविकृष्य (√वि-कृष् + ल्यप्)–अथ (अव्ययः)
तद्तद् (२.१)
धनुर्धनुस् (२.१)
धन्विनांधन्विन् (६.३)
वरःवर (१.१)
तद् (१.१)
मुमोचमुमोच (√मुच् लिट् प्र.पु. एक.)
महाबाणंमहत्–बाण (२.१)
लवणस्यलवण (६.१)
महोरसिमहत्–उरस् (७.१)
उरस्तस्यउरस् (२.१)–तद् (६.१)
विदार्याशुविदारी–आशु (अव्ययः)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
रसातलम्रसातल (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
र्णात्सवि कृ ष्याद्ध नुर्ध
न्वि नां रःमु मो हा बा णं
स्य होसि स्तस्य
वि दा र्या शुप्रवि वे सा लम्