७.६१.३५

गत्वा रसातलं दिव्यं शरो विबुधपूजितः ।
पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥

पदच्छेदः

गत्वागत्वा (√गम् + क्त्वा)
रसातलंरसातल (२.१)
दिव्यंदिव्य (२.१)
शरोशर (१.१)
विबुधपूजितःविबुध–पूजित (√पूजय् + क्त, १.१)
पुनर्पुनर् (अव्ययः)
एवागमत्एव (अव्ययः)–आगमत् (√आ-गम् प्र.पु. एक.)
तूर्णम्तूर्णम् (अव्ययः)
इक्ष्वाकुकुलनन्दनम्इक्ष्वाकु–कुल–नन्दन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वा सा लं दि व्यं
रोविबु पूजि तः
पु रे वा त्तूर्ण
मि क्ष्वाकुकुन्द नम्