७.६१.३८

एकेषुपातेन भयं निहत्य; लोकत्रयस्यास्य रघुप्रवीरः ।
विनिर्बभावुद्यतचापबाण;स्तमः प्रणुद्येव सहस्ररश्मिः ॥

M N Dutt

Having removed the fear of the three worlds with one shaft, that heroic Raghu, Satrughnayounger brother of Lakşmaņa, holding excellent bow and arrow, appeared like the Sun of thousand rays removing darkness.

पदच्छेदः

एकेषुपातेनएक–इषु–पात (३.१)
भयंभय (२.१)
निहत्यनिहत्य (√नि-हन् + ल्यप्)
लोकत्रयस्यास्यलोकत्रय (६.१)–इदम् (६.१)
रघुप्रवीरःरघु–प्रवीर (१.१)
विनिर्बभावुद्यतचापबाणस्विनिर्बभौ (√विनिः-भा लिट् प्र.पु. एक.)–उद्यत (√उत्-यम् + क्त)–चाप–बाण (१.१)
तमःतमस् (२.१)
प्रणुद्येवप्रणुद्य (√प्र-नुद् + ल्यप्)–इव (अव्ययः)
सहस्ररश्मिःसहस्ररश्मि (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
केषु पा ते यंनित्य
लोत्र स्यास्य घुप्र वी रः
वि निर्ब भा वुद्य चा बा
स्त मःप्र णु द्येस्र श्मिः