७.६१.६

त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर ।
पुरं जनपदं चापि क्षेममेतद्भविष्यति ॥

M N Dutt

O Rākşasa, forsooth shall good crown cities and villages when you shall fall down brunt by my arrow.

पदच्छेदः

त्वयित्वद् (७.१)
मद्बाणनिर्दग्धेमद्–बाण–निर्दग्ध (√निः-दह् + क्त, ७.१)
पतितेपतित (√पत् + क्त, ७.१)
ऽद्यअद्य (अव्ययः)
निशाचरनिशाचर (८.१)
पुरंपुर (१.१)
जनपदंजनपद (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
क्षेमम्क्षेम (१.१)
एतद्एतद् (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वयि द्बा नि र्द ग्धे
ति तेऽद्यनि शा
पु रं दं चापि
क्षे मेद्भ विष्यति