७.६१.७

अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥

M N Dutt

As the rays of the sun enter into lotus so shall arrows, hard as lightning, discharged by my hands, shall enter into your heart.

पदच्छेदः

अद्यअद्य (अव्ययः)
मद्बाहुनिष्क्रान्तःमद्–बाहु–निष्क्रान्त (√निः-क्रम् + क्त, १.१)
शरोशर (१.१)
वज्रनिभाननःवज्र–निभ–आनन (१.१)
प्रवेक्ष्यतेप्रवेक्ष्यते (√प्र-विश् लृट् प्र.पु. एक.)
तेत्वद् (६.१)
हृदयंहृदय (२.१)
पद्मम्पद्म (२.१)
अंशुर्अंशु (१.१)
इवार्कजःइव (अव्ययः)–अर्क–ज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्य द्बाहु नि ष्क्रा न्तः
रोज्रनि भा नः
प्र वेक्ष्य ते तेहृ यं
द्म मंशुरि वार्क जः