७.६२.१२

यच्च तेन महच्छून्यं लवणेन कृतं पुरा ।
शोभयामास तद्वीरो नानापण्यसमृद्धिभिः ॥

पदच्छेदः

यच्चयद् (१.१)–च (अव्ययः)
तेनतद् (३.१)
महच्छून्यंमहत् (१.१)–शून्य (१.१)
लवणेनलवण (३.१)
कृतंकृत (√कृ + क्त, १.१)
पुरापुरा (अव्ययः)
शोभयामासशोभयामास (√शोभय् प्र.पु. एक.)
तद्तद् (२.१)
वीरोवीर (१.१)
नानापण्यसमृद्धिभिःनाना (अव्ययः)–पण्य–समृद्धि (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्च ते च्छू न्यं
णेकृ तंपु रा
शो या मा द्वी रो
ना नाण्य मृद्धि भिः