७.६२.१३

तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥

पदच्छेदः

तांतद् (२.१)
समृद्धांसमृद्ध (√सम्-ऋध् + क्त, २.१)
समृद्धार्थःसमृद्ध (√सम्-ऋध् + क्त)–अर्थ (१.१)
शत्रुघ्नोशत्रुघ्न (१.१)
भरतानुजःभरत–अनुज (१.१)
निरीक्ष्यनिरीक्ष्य (√निः-ईक्ष् + ल्यप्)
परमप्रीतःपरम–प्रीत (√प्री + क्त, १.१)
परंपर (२.१)
हर्षम्हर्ष (२.१)
उपागमत्उपागमत् (√उप-गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां मृ द्धां मृ द्धा र्थः
त्रु घ्नो तानु जः
नि रीक्ष्य प्री तः
रंर्षमु पा मत्