७.६२.१४

तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे ॥

M N Dutt

Having thus reared the beautiful city he resolved within himself The twelfth year has come. I shall now behold the feet of Rāma.

पदच्छेदः

तस्यतद् (६.१)
बुद्धिःबुद्धि (१.१)
समुत्पन्नासमुत्पन्न (√समुत्-पद् + क्त, १.१)
निवेश्यनिवेश्य (√नि-वेशय् + ल्यप्)
मधुरांमधुर (२.१)
पुरीम्पुरी (२.१)
रामपादौराम–पाद (२.२)
निरीक्षेयंनिरीक्षेयम् (√निः-ईक्ष् विधिलिङ् उ.पु. )
वर्षेवर्ष (७.१)
द्वादशमेद्वादशम (७.१)
शुभेशुभ (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य बु द्धिः मु त्प न्ना
नि वेश्यधु रांपु रीम्
रा पा दौनि री क्षे यं
र्षे द्वा मेशु भे