७.६३.१

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥

M N Dutt

There upon on the completion of the twelfth year, Satrughna, with few servants, soldiers and followers, desired to proceed to Ayodhyā protected by Rama.

पदच्छेदः

ततोततस् (अव्ययः)
द्वादशमेद्वादशम (७.१)
वर्षेवर्ष (७.१)
शत्रुघ्नोशत्रुघ्न (१.१)
रामपालिताम्राम–पालित (√पालय् + क्त, २.१)
अयोध्यांअयोध्या (२.१)
चकमेचकमे (√कम् लिट् प्र.पु. एक.)
गन्तुम्गन्तुम् (√गम् + तुमुन्)
अल्पभृत्यबलानुगःअल्प–भृत्य–बल–अनुग (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो द्वा मे र्षे
त्रु घ्नो रा पालि ताम्
यो ध्यां मेन्तु
ल्प भृत्य लानु गः