७.६२.३

वरदाः स्म महाबाहो सर्व एव समागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥

M N Dutt

O you having long arms, all those who can confer boons have arrived here; they all wish for your victory; seeing us does not go without fruits.

पदच्छेदः

वरदाःवर–द (१.३)
स्मस्म (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
सर्वसर्व (१.३)
एवएव (अव्ययः)
समागताःसमागत (√समा-गम् + क्त, १.३)
विजयाकाङ्क्षिणस्तुभ्यम्विजय–आकाङ्क्षिन् (१.३)–त्वद् (४.१)
अमोघंअमोघ (१.१)
दर्शनंदर्शन (१.१)
हिहि (अव्ययः)
नःमद् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दाःस्म हा बा हो
र्व मा ताः
वि या काङ्क्षि स्तुभ्य
मो घंर्श नंहि नः