७.६२.५

इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम् ।
निवेशं प्राप्नुयां शीघ्रमेष मेऽस्तु वरो मतः ॥

M N Dutt

Let this picturesque and charming city of Madhu, built by the celestials, by my capital; this is the only excellent boon I can beg.

पदच्छेदः

इमांइदम् (२.१)
मधुपुरींमधुपुरी (२.१)
रम्यांरम्य (२.१)
मधुरांमधुर (२.१)
देवनिर्मिताम्देव–निर्मित (√निः-मा + क्त, २.१)
निवेशंनिवेश (२.१)
प्राप्नुयांप्राप्नुयाम् (√प्र-आप् विधिलिङ् उ.पु. )
शीघ्रम्शीघ्रम् (अव्ययः)
एषएतद् (१.१)
मेमद् (६.१)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
वरोवर (१.१)
मतःमत (√मन् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मांधुपु रीं म्यां
धु रां दे निर्मि ताम्
नि वे शं प्राप्नु यां शीघ्र
मे मेऽस्तु रो तः