७.६३.११

काले काले च मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥

M N Dutt

O heroic and foremost of men, do you, at intervals, come to Ayodhyå to see me and return to your own city.

पदच्छेदः

कालेकाल (७.१)
कालेकाल (७.१)
(अव्ययः)
मांमद् (२.१)
वीरवीर (८.१)
अयोध्याम्अयोध्या (२.१)
अवलोकितुम्अवलोकितुम् (√अव-लोकय् + तुमुन्)
आगच्छआगच्छ (√आ-गम् लोट् म.पु. )
त्वंत्वद् (१.१)
नरश्रेष्ठनर–श्रेष्ठ (८.१)
गन्तासिगन्तासि (√गम् लुट् म.पु. )
(अव्ययः)
पुरंपुर (२.१)
तवत्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का ले का ले मां वी
यो ध्या लोकि तुम्
च्छ त्वं श्रेष्ठ
न्तासिपु रं