७.६३.३

स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥

पदच्छेदः

तद् (१.१)
गत्वागत्वा (√गम् + क्त्वा)
गणितान्गणित (√गणय् + क्त, २.३)
वासान्वास (२.३)
सप्ताष्टौसप्तन्–अष्टन् (२.३)
रघुनन्दनःरघुनन्दन (१.१)
अयोध्याम्अयोध्या (२.१)
अगमत्अगमत् (√गम् प्र.पु. एक.)
तूर्णंतूर्णम् (अव्ययः)
राघवोत्सुकदर्शनःराघव–उत्सुक–दर्शन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वाणि ता न्वा सा
न्स प्ता ष्टौघुन्द नः
यो ध्या त्तू र्णं
रा वोत्सुर्श नः