७.६३.६

यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।
हतः स लवणः पापः पुरी सा च निवेशिता ॥

पदच्छेदः

यद्यद् (१.१)
आज्ञप्तंआज्ञप्त (√आ-ज्ञपय् + क्त, १.१)
महाराजमहत्–राज (८.१)
सर्वंसर्व (२.१)
तत्तद् (२.१)
कृतवान्कृतवत् (√कृ + क्तवतु, १.१)
अहम्मद् (१.१)
हतःहत (√हन् + क्त, १.१)
तद् (१.१)
लवणःलवण (१.१)
पापःपाप (१.१)
पुरीपुरी (१.१)
सातद् (१.१)
(अव्ययः)
निवेशितानिवेशित (√नि-वेशय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा ज्ञ प्तं हा रा
र्वंत्कृ वा हम्
तः णः पा पः
पु री सानि वेशि ता