७.६४.३

रुदन्बहुविधा वाचः स्नेहाक्षरसमन्विताः ।
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥

पदच्छेदः

रुदन्रुदत् (√रुद् + शतृ, १.१)
बहुविधाबहुविध (२.३)
वाचःवाच् (२.३)
स्नेहाक्षरसमन्विताःस्नेह–अक्षर–समन्वित (२.३)
असकृत्असकृत् (अव्ययः)
पुत्रपुत्र (८.१)
पुत्रेतिपुत्र (८.१)–इति (अव्ययः)
वाक्यम्वाक्य (२.१)
एतद्एतद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रुन्बहुवि धा वा चः
स्ने हाक्षन्वि ताः
कृ त्पुत्र पु त्रेति
वाक्य मेदु वा