७.६४.४

किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम् ।
यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥

पदच्छेदः

किं (१.१)
नुनु (अव्ययः)
मेमद् (६.१)
दुष्कृतंदुष्कृत (१.१)
कर्मकर्मन् (१.१)
पूर्वंपूर्वम् (अव्ययः)
देहान्तरेदेह–अन्तर (७.१)
कृतम्कृत (√कृ + क्त, १.१)
यद्यत् (अव्ययः)
अहंमद् (१.१)
पुत्रम्पुत्र (२.१)
एकंएक (२.१)
त्वांत्वद् (२.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
निधनंनिधन (२.१)
गतम्गत (√गम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किंनु मे दुष्कृ तंर्म
पू र्वं दे हान्त रेकृ तम्
हं पुत्र मे कं त्वां
श्यामिनि नं तम्