७.६४.५

अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम् ।
अकाले कालमापन्नं दुःखाय मम पुत्रक ॥

पदच्छेदः

अप्राप्तयौवनंअप्राप्त–यौवन (२.१)
बालंबाल (२.१)
पञ्चवर्षसमन्वितम्पञ्चन्–वर्ष–समन्वित (२.१)
अकालेअकाल (७.१)
कालम्काल (२.१)
आपन्नंआपन्न (√आ-पद् + क्त, २.१)
दुःखायदुःख (४.१)
मममद् (६.१)
पुत्रकपुत्रक (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्राप्त यौ नं बा लं
ञ्चर्षन्वि तम्
का ले का मा न्नं
दुः खा पुत्र