७.६५.१६

ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।
शुभान्येवाचरँल्लोकाः सत्यधर्मपरायणाः ॥

पदच्छेदः

ततःततस् (अव्ययः)
प्रादुष्कृतंप्रादुष्कृत (√प्रादुस्-कृ + क्त, १.१)
पूर्वम्पूर्वम् (अव्ययः)
आयुषःआयुस् (६.१)
परिनिष्ठितम्परिनिष्ठित (√परिनि-स्था + क्त, १.१)
शुभान्येवाचरंल्लोकाःशुभ (२.३)–एव (अव्ययः)–अचरन् (√चर् लङ् प्र.पु. बहु.)–लोक (१.३)
सत्यधर्मपरायणाःसत्य–धर्म–परायण (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः प्रा दुष्कृ तं पूर्व
मायु षःरि निष्ठि तम्
शु भा न्ये वा ल्लो काः
त्यर्म रा णाः