७.६५.१७

त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश्च ये ।
तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥

M N Dutt

During the Tretă age the Brāhmaṇas and Kș atriyas engaged in austere penances and the Vaiśyas and Sūdras engaged in serving them.

पदच्छेदः

त्रेतायुगेत्रेता–युग (७.१)
त्ववर्तन्ततु (अव्ययः)–अवर्तन्त (√वृत् लङ् प्र.पु. बहु.)
ब्राह्मणाःब्राह्मण (१.३)
क्षत्रियश्चक्षत्रिय (१.१)–च (अव्ययः)
येयद् (१.३)
तपोतपस् (२.१)
ऽतप्यन्तअतप्यन्त (√तप् लङ् प्र.पु. बहु.)
तेतद् (१.३)
सर्वेसर्व (१.३)
शुश्रूषाम्शुश्रूषा (२.१)
अपरेअपर (१.३)
जनाःजन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रे तायु गेत्व र्तन्त
ब्राह्म णाः क्षत्रिश्च ये
पो ऽत प्यन्त ते र्वे
शु श्रू षा रे नाः