७.६५.२१

तस्मिन्द्वापरसंख्याते तपो वैश्यान्समाविशत् ।
न शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ ॥

पदच्छेदः

तस्मिन्तद् (७.१)
द्वापरसंख्यातेद्वापर–संख्यात (√सम्-ख्या + क्त, ७.१)
तपोतपस् (१.१)
वैश्यान्वैश्य (२.३)
समाविशत्समाविशत् (√समा-विश् लङ् प्र.पु. एक.)
(अव्ययः)
शूद्रोशूद्र (१.१)
लभतेलभते (√लभ् लट् प्र.पु. एक.)
धर्मम्धर्म (२.१)
उग्रंउग्र (२.१)
तप्तंतप्त (√तप् + क्त, २.१)
नरर्षभनर–ऋषभ (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्द्वा सं ख्या ते
पो वै श्यान्स मावि शत्
शू द्रो तेर्म
मु ग्रं प्तंर्ष