७.६६.१

नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥

M N Dutt

Hearing the sweet words of the celestial saint Nārada, Rāma was greatly delighted and addressing Lakşmaņa said.

पदच्छेदः

नारदस्यनारद (६.१)
तुतु (अव्ययः)
तद्तद् (२.१)
वाक्यंवाक्य (२.१)
श्रुत्वामृतमयंश्रुत्वा (√श्रु + क्त्वा)–अमृत–मय (२.१)
यथायथा (अव्ययः)
प्रहर्षम्प्रहर्ष (२.१)
अतुलंअतुल (२.१)
लेभेलेभे (√लभ् लिट् प्र.पु. एक.)
लक्ष्मणंलक्ष्मण (२.१)
चेदम् (अव्ययः)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नास्यतु द्वा क्यं
श्रु त्वामृ यं था
प्रर्षतु लं ले भे
क्ष्म णं चेब्र वीत्