७.६६.११

अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥

M N Dutt

And even there he did not espy the Sūdra ascetic and even the smallest iniquity was not seen there. There upon returning from that quarter the king journeyed the whole of east.

पदच्छेदः

अपश्यमानस्तत्रापिअपश्यमान (१.१)–तत्र (अव्ययः)–अपि (अव्ययः)
स्वल्पम्सु (अव्ययः)–अल्प (२.१)
अप्यथअपि (अव्ययः)–अथ (अव्ययः)
दुष्कृतम्दुष्कृत (२.१)
पूर्वाम्पूर्व (२.१)
अपिअपि (अव्ययः)
दिशंदिश् (२.१)
सर्वाम्सर्व (२.१)
अथापश्यन्नराधिपःअथ (अव्ययः)–अपश्यत् (√पश् लङ् प्र.पु. एक.)–नर–अधिप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्य मा स्त त्रापि
स्वल्पप्य दुष्कृ तम्
पू र्वापिदि शं र्वा
था श्यन्न राधि पः