७.६६.१३

तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥

पदच्छेदः

तस्मिन्तद् (७.१)
सरसिसरस् (७.१)
तप्यन्तंतप्यत् (√तप् + शतृ, २.१)
तापसंतापस (२.१)
सुमहत्सु (अव्ययः)–महत् (२.१)
तपःतपस् (२.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
राघवःराघव (१.१)
श्रीमांल्लम्बमानम्श्रीमत् (१.१)–लम्बमान (√लम्ब् + शानच्, २.१)
अधोमुखम्अधोमुख (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिन्ससि प्य न्तं
ता संसुत्त पः
र्श रा वः श्री मा
ल्लम्ब मा धोमु खम्