७.६७.१४

तद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनः ।
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥

पदच्छेदः

तद्तद् (२.१)
रामःराम (१.१)
प्रतिजग्राहप्रतिजग्राह (√प्रति-ग्रह् लिट् प्र.पु. एक.)
मुनेस्तस्यमुनि (६.१)–तद् (६.१)
महात्मनःमहात्मन् (६.१)
दिव्यम्दिव्य (२.१)
आभरणंआभरण (२.१)
चित्रंचित्र (२.१)
प्रदीप्तम्प्रदीप्त (√प्र-दीप् + क्त, २.१)
इवइव (अव्ययः)
भास्करम्भास्कर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्रा मःप्रति ग्रा
मु ने स्तस्य हात्म नः
दिव्य मा णं चि त्रं
प्र दीप्तमि भास्क रम्