७.६७.१६

अत्यद्भुतमिदं ब्रह्मन्वपुषा युक्तमुत्तमम् ।
कथं भगवता प्राप्तं कुतो वा केन वाहृतम् ॥

पदच्छेदः

अत्यद्भुतम्अति (अव्ययः)–अद्भुत (१.१)
इदंइदम् (१.१)
ब्रह्मन्ब्रह्मन् (८.१)
वपुषावपुस् (३.१)
युक्तम्युक्त (√युज् + क्त, १.१)
उत्तमम्उत्तम (१.१)
कथंकथम् (अव्ययः)
भगवताभगवत् (३.१)
प्राप्तंप्राप्त (√प्र-आप् + क्त, १.१)
कुतोकुतस् (अव्ययः)
वावा (अव्ययः)
केन (३.१)
वाहृतम्वा (अव्ययः)–आहृत (√आ-हृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यद्भुमि दं ब्रह्म
न्वपु षा युक्त मुत्त मम्
थं ता प्रा प्तं
कु तो वा के वाहृ तम्