७.६८.१६

को भवान्देवसंकाश आहारश्च विगर्हितः ।
त्वयायं भुज्यते सौम्य किं कर्थं वक्तुमर्हसि ॥

M N Dutt

O foremost of men, beholding that heavenly being about to get up I accosted him, saying, Who are you? I see, you have a celestial firm, then why have you taken such an abominable food?

पदच्छेदः

को (१.१)
भवान्भवत् (१.१)
देवसंकाशदेव–संकाश (१.१)
आहारश्चआहार (१.१)–च (अव्ययः)
विगर्हितःविगर्हित (√वि-गर्ह् + क्त, १.१)
त्वयायंत्वद् (३.१)–इदम् (१.१)
भुज्यतेभुज्यते (√भुज् प्र.पु. एक.)
सौम्यसौम्य (८.१)
किमर्थं (२.१)–अर्थ (२.१)
वक्तुम्वक्तुम् (√वच् + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

को वा न्दे सं का
हाश्चविर्हि तः
त्व या यं भुज्य ते सौम्य
किं र्थंक्तुर्हसि