७.६८.१७

आश्चर्यमीदृशो भावो भास्वरो देवसंमतः ।
आहारो गर्हितः सौम्य श्रोतुमिच्छामि तत्त्वतः ॥

पदच्छेदः

आश्चर्यम्आश्चर्य (१.१)
ईदृशोईदृश (१.१)
भावोभाव (१.१)
भास्वरोभास्वर (१.१)
देवसंमतःदेव–संमत (√सम्-मन् + क्त, १.१)
आहारोआहार (१.१)
गर्हितःगर्हित (√गर्ह् + क्त, १.१)
सौम्यसौम्य (८.१)
श्रोतुम्श्रोतुम् (√श्रु + तुमुन्)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
तत्त्वतःतत्त्व (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्चर्य मीदृ शो भा वो
भास्व रो दे सं तः
हा रोर्हि तः सौम्य
श्रोतु मि च्छामित्त्व तः