७.६९.२२

तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय ।
अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥

पदच्छेदः

तस्यतद् (६.१)
मेमद् (६.१)
कृच्छ्रभूतस्यकृच्छ्र–भूत (√भू + क्त, ६.१)
कृच्छ्राद्कृच्छ्र (५.१)
अस्माद्इदम् (५.१)
विमोक्षयविमोक्षय (√वि-मोक्षय् लोट् म.पु. )
अन्येषाम्अन्य (६.३)
अगतिर्अगति (१.१)
ह्यत्रहि (अव्ययः)–अत्र (अव्ययः)
कुम्भयोनिम्कुम्भयोनि (२.१)
ऋतेऋते (अव्ययः)
द्विजम्द्विज (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य मे कृच्छ्र भूस्य
कृ च्छ्रा स्माद्वि मोक्ष
न्ये षा ति र्ह्यत्र
कुम्भ योनिमृ तेद्वि जम्