७.६९.९

भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥

पदच्छेदः

भ्रातरंभ्रातृ (२.१)
सुरथंसुरथ (२.१)
राज्येराज्य (७.१)
अभिषिच्यअभिषिच्य (√अभि-सिच् + ल्यप्)
नराधिपम्नराधिप (२.१)
इदंइदम् (२.१)
सरःसरस् (२.१)
समासाद्यसमासाद्य (√समा-सादय् + ल्यप्)
तपस्तप्तंतपस् (१.१)–तप्त (√तप् + क्त, १.१)
मयामद् (३.१)
चिरम्चिरम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्रा रंसु थं रा ज्ये
भि षिच्य राधि पम्
दं रः मा साद्य
स्त प्तं याचि रम्