७.७.१०

सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।
ररास भीमनिह्रादो युगान्ते जलदो यथा ॥

M N Dutt

Winded by Hari with his utmost might, that water-sprung king of conchs, endowed with terrific blares, roared, as if afflicting the three worlds.

पदच्छेदः

सोतद् (१.१)
ऽम्बुजोअम्बुज (१.१)
हरिणाहरि (३.१)
ध्मातःध्मात (√धम् + क्त, १.१)
सर्वप्राणेनसर्व–प्राण (३.१)
शङ्खराट्शङ्ख–राज् (१.१)
ररासररास (√रस् लिट् प्र.पु. एक.)
भीमनिह्रादोभीम–निह्राद (१.१)
युगान्तेयुग–अन्त (७.१)
जलदोजलद (१.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सोऽम्बु जोरि णा ध्मा तः
र्व प्रा णेङ्ख राट्
रा भी नि ह्रा दो
यु गा न्ते दो था