७.७.१३

शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।
विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥

M N Dutt

And dight with dainty feathered parts having heads, the shafts discharged from the śārnga, resembling thunder-bolts, riving those Rākşása, entered the earth.

पदच्छेदः

शार्ङ्गचापविनिर्मुक्ताशार्ङ्ग–चाप–विनिर्मुक्त (√विनिः-मुच् + क्त, १.३)
वज्रतुल्याननाःवज्र–तुल्य–आनन (१.३)
शराःशर (१.३)
विदार्यविदार्य (√वि-दारय् + ल्यप्)
तानितद् (२.३)
रक्षांसिरक्षस् (२.३)
सुपुङ्खासु (अव्ययः)–पुङ्ख (१.३)
विविशुःविविशुः (√विश् लिट् प्र.पु. बहु.)
क्षितिम्क्षिति (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शार्ङ्ग चावि नि र्मु क्ता
ज्र तु ल्या नाः राः
वि दार्य तानि क्षांसि
सु पु ङ्खाविवि शुःक्षि तिम्