७.७.२

श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः ।
वृतोऽञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः ॥

M N Dutt

Visnu of a bright brown-blue hue, being surrounded by the flower of the night-rangers with dark visages, resembled the Añjana mountain, on which the clouds pour down.

पदच्छेदः

श्यामावदातस्तैर्श्याम–अवदात (१.१)–तद् (३.३)
विष्णुर्विष्णु (१.१)
नीलैर्नील (३.३)
नक्तंचरोत्तमैःनक्तंचर–उत्तम (३.३)
वृतोवृत (√वृ + क्त, १.१)
ऽञ्जनगिरीवासीद्अञ्जन–गिरि–इव (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
वर्षमाणैःवर्षमाण (√वृष् + शानच्, ३.३)
पयोधरैःपयोधर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्या मा दा स्तै र्विष्णु
र्नी लै र्न क्तं रोत्त मैः
वृ तोऽञ्जगि री वा सी
द्वर्ष मा णैः यो रैः