७.७.२७

तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।
इन्द्रियाश्वैर्यथा भ्रान्तैर्धृतिहीनो यथा नरः ॥

M N Dutt

And with his bewildered steeds Sumali wanders like a person deprived of patience, whose senses are under hallucination.

पदच्छेदः

तैर्तद् (३.३)
अश्वैर्अश्व (३.३)
भ्राम्यतेभ्राम्यते (√भ्रामय् प्र.पु. एक.)
भ्रान्तैःभ्रान्त (√भ्रम् + क्त, ३.३)
सुमालीसुमालिन् (१.१)
राक्षसेश्वरःराक्षस–ईश्वर (१.१)
इन्द्रियाश्वैर्इन्द्रिय–अश्व (३.३)
यथायथा (अव्ययः)
भ्रान्तैर्भ्रान्त (√भ्रम् + क्त, ३.३)
धृतिहीनोधृति–हीन (√हा + क्त, १.१)
यथायथा (अव्ययः)
नरःनर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तै श्वै र्भ्राम्य ते भ्रा न्तैः
सु मा ली राक्ष सेश्व रः
न्द्रि या श्वैर्य था भ्रा न्तै
र्धृति ही नो था रः